Verse 3
अलमनेन परिषत्कुतूहलविमर्दकारिणा परिश्रमेण। एवमहमार्यमिश्रान् प्रणिपत्य विज्ञापयामि - यदिदं वयं मृच्छकटिकं नाम प्रकर्णं प्रयोक्तुं व्यवसिताः। एतत्कविः किल -
अलम् अनेन परिषत्-कुतूहल-विमर्द-कारिणा परिश्रमेण। एवम् अहम् आर्य-मिश्रान् प्रणिपत्य विज्ञापयामि - यत् इदम् वयम् मृच्छकटिकं नाम प्रकर्णम् प्रयोक्तुम् व्यवसिताः। एतत्-कविः किल -
Enough of an exertion that causes distraction of the curiosity of the audience.-Having saluted (these) honourable gentlemen, I will thus respectfully address them: That (here) we have undertaken to stage this play called Mrichchhaatika. It is stated that the poet, its author -
- अलम् Enough
- अनेन this
- परिषत् audience
- कुतूहल curiosity
- विमर्द distraction
- कारिणा cause (instrumental case) कारिन्
- परिश्रमेण exertion (instrumental case) परिश्रम
- एवम् these
- अहम् I
- आर्य honourable
- मिश्रान् gentlemen (accusative case) मिश्र
- प्रणिपत्य having saluted प्रणिपतति
- विज्ञापयामि address
- यत् that
- इदम् this
- वयम् we
- नाम called
- प्रकरणम् play
- प्रयोक्तुम् stage
- व्यवसिताः undertaken
- एतत् this
- कविः poet
- किल indeed
द्विरदेन्द्रगतिश्चकोरनेत्रः परिपूर्णेन्दुमुखः सुविग्रहश्च।
द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्त्वः।।३।।
द्विरद-इन्द्र-गतिः चकोर-नेत्रः परिपूर्ण-इन्दु-मुखः सुविग्रहः च।
द्विज-मुख्यतमः कविः बभूव प्रथितः शूद्रकः इति अगाध-सत्त्वः।।3।।
Was a famous scholar, Sudraka by name, who was the very best of the twice-born (Kshatriyas), and of unfathomable mental calibre. His gait was like that of an excellent elephant; his eyes resembled those of a chakora bird; his face vied with the full moon (in beauty); and he possessed a handsome body.
- द्विरद elephant
- इन्द्र excellent
- गतिः gait
- चकोर chakora bird
- नेत्रः eyes
- परिपूर्ण full
- इन्दु moon
- मुखः face
- सुविग्रहः handsome body
- च and
- द्विज twice-born
- मुख्यतमः best
- कविः poet
- बभूव became
- प्रथितः famous
- शूद्रकः Sudraka
- इति by name
- अगाध unfathomable
- सत्त्वः mental calibre
Comments
Post a Comment